View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - एकादशोऽध्यायः

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्यंते चत्वारः सहजा गुणाः ॥ 01 ॥

आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।
स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ 02 ॥

हस्ती स्थूलतनुः स चांकुशवशः किं हस्तिमात्रोऽंकुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ।
वज्रेणापि हताः पतंति गिरयः किं वज्रमात्रं नगा-
स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ 03 ॥

कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् ।
तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ 04 ॥

गृहासक्तस्य नो विद्या नो दया मांसभोजिनः ।
द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥ 05 ॥

न दुर्जनः साधुदशामुपैति
बहुप्रकारैरपि शिक्ष्यमाणः ।
आमूलसिक्तः पयसा घृतेन
न निंबवृक्षो मधुरत्वमेति ॥ 06 ॥

अंतर्गतमलो दुष्टस्तीर्थस्नानशतैरपि ।
न शुध्यति यथा भांडं सुराया दाहितं च सत् ॥ 07 ॥

न वेत्ति यो यस्य गुणप्रकर्षं
स तं सदा निंदति नात्र चित्रम् ।
यथा किराती करिकुंभलब्धां
मुक्तां परित्यज्य बिभर्ति गुंजाम् ॥ 08 ॥

ये तु संवत्सरं पूर्णं नित्यं मौनेन भुंजते ।
युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥ 09 ॥

कामक्रोधौ तथा लोभं स्वादुश‍ऋंगारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ 10 ॥

अकृष्टफलमूलेन वनवासरतः सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥ 11 ॥

एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।
ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ 12 ॥

लौकिके कर्मणि रतः पशूनां परिपालकः ।
वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥ 13 ॥

लाक्षादितैलनीलीनां कौसुंभमधुसर्पिषाम् ।
विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥ 14 ॥

परकार्यविहंता च दांभिकः स्वार्थसाधकः ।
छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥ 15 ॥

वापीकूपतडागानामारामसुरवेश्मनाम् ।
उच्छेदने निराशंकः स विप्रो म्लेच्छ उच्यते ॥ 16 ॥

देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् ।
निर्वाहः सर्वभूतेषु विप्रश्चांडाल उच्यते ॥ 17 ॥

देयं भोज्यधनं धनं सुकृतिभिर्नो संचयस्तस्य वै
श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता ।
अस्माकं मधुदानभोगरहितं नाथं चिरात्संचितं
निर्वाणादिति नैजपादयुगलं धर्षंत्यहो मक्षिकाः ॥ 18 ॥




Browse Related Categories: