View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - नवमोऽध्यायः

मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ।
क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥ 01 ॥

परस्परस्य मर्माणि ये भाषंते नराधमाः ।
त एव विलयं यांति वल्मीकोदरसर्पवत् ॥ 02 ॥

गंधः सुवर्णे फलमिक्षुदंडे
नाकरि पुष्पं खलु चंदनस्य ।
विद्वांधनाढ्यश्च नृपश्चिरायुः
धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ 03 ॥

सर्वौषधीनाममृता प्रधाना
सर्वेषु सौख्येष्वशनं प्रधानम् ।
सर्वेंद्रियाणां नयनं प्रधानं
सर्वेषु गात्रेषु शिरः प्रधानम् ॥ 04 ॥

दूतो न संचरति खे न चलेच्च वार्ता
पूर्वं न जल्पितमिदं न च संगमोऽस्ति ।
व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं
जानाति यो द्विजवरः स कथं न विद्वान् ॥ 05 ॥

विद्यार्थी सेवकः पांथः क्षुधार्तो भयकातरः ।
भांडारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ 06 ॥

अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥ 07 ॥

अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः ।
ते द्विजाः किं करिष्यंति निर्विषा इव पन्नगाः ॥ 08 ॥

यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥ 09 ॥

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु घटाटोपो भयंकरः ॥ 10 ॥

प्रातर्द्यूतप्रसंगेन मध्याह्ने स्त्रीप्रसंगतः ।
रात्रौ चौरप्रसंगेन कालो गच्छंति धीमताम् ॥ 11 ॥

स्वहस्तग्रथिता माला स्वहस्तघृष्टचंदनम् ।
स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत् ॥ 12 ॥

इक्षुदंडास्तिलाः शूद्राः कांता हेम च मेदिनी ।
चंदनं दधि तांबूलं मर्दनं गुणवर्धनम् ॥ 13 ॥

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना
अशक्तास्तत्पदं गंतुं ततो निंदां प्रकुर्वते ।
दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते
कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥ 14 ॥




Browse Related Categories: