View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

निर्वाण दशकं

न भूमिर्न तोयं न तेजो न वायुः
न खं नेंद्रियं वा न तेषां समूहः
अनेकांतिकत्वात्सुषुप्त्येकसिद्धः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 1 ॥

न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोपि
अनात्माश्रयाहं ममाध्यासहाना-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 2 ॥

न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवंति
सुषुप्तौ निरस्तातिशून्यात्मकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 3 ॥

न सांख्यं न शैवं न तत्पांचरात्रं
न जैनं न मीमांसकादेर्मतं वा
विशिष्टानुभूत्या विशुद्धात्मकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 4 ॥

न चोर्ध्वं न चाधो न चांतर्न बाह्यं
न मध्यं न तिर्यन्न पूर्वाऽपरा दिक्
वियद्व्यापकत्वादखंडैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 5 ॥

न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घं
अरूपं तथा ज्योतिराकारकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 6 ॥

न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपंचः
स्वरूपावबोधी विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 7 ॥

न जाग्रन्न मे स्वप्नको वा सुषुप्तिः
न विश्वो न वा तैजसः पाज्ञको वा
अविद्यात्मकत्वात्त्रयाणं तुरीयः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 8 ॥

अपि व्यापकत्वाद्धितत्वप्रयोगा-
त्स्वतः सिद्धभावादनन्याश्रयत्वात्
जगत्तुच्छमेतत्समस्तं तदन्य-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 9 ॥

न चैकं तदन्यद्द्वितीयं कुतः स्यात्
न केवलत्वं न चाकेवलत्वं
न शून्यं न चाशून्यमद्वैतकत्वा-
कथं सर्ववेदांतसिद्धिं ब्रवीमि ॥ 10 ॥




Browse Related Categories: