View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - अष्टमोऽध्यायः

अधमा धनमिच्छंति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छंति मानो हि महतां धनम् ॥ 01 ॥

इक्षुरापः पयो मूलं तांबूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ 02 ॥

दीपो भक्षयते ध्वांतं कज्जलं च प्रसूयते ।
यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ 03 ॥

वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
जीवान्स्थावरजंगमांश्च सकलान्संजीव्य भूमंडलं
भूयः पश्य तदेव कोटिगुणितं गच्छंतमंभोनिधिम् ॥ 04 ॥

चांडालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः ।
एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ 05 ॥

तैलाभ्यंगे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चांडालो यावत्स्नानं न चाचरेत् ॥ 06 ॥

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनांते विषापहम् ॥ 07 ॥

हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ 08 ॥

वृद्धकाले मृता भार्या बंधुहस्तगतं धनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडंबनाः ॥ 09 ॥

नाग्निहोत्रं विना वेदा न च दानं विना क्रिया ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 10 ॥

न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 11 ॥

काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ 12 ॥

न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ 13 ॥

शांतितुल्यं तपो नास्ति न संतोषात्परं सुखम् ।
अपत्यं च कलत्रं च सतां संगतिरेव च ॥ 14 ॥

गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 15 ॥

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ 16 ॥

शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
शुचिः क्षेमकरो राजा संतोषो ब्राह्मणः शुचिः ॥ 17 ॥

असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलांगना ॥ 18 ॥

किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ 19 ॥

विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते ।
विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ 20 ॥

मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः ।
पशुभिः पुरुषाकारैर्भाराक्रांता हि मेदिनी ॥ 21 ॥

अन्नहीनो दहेद्राष्ट्रं मंत्रहीनश्च ऋत्विजः ।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ 22 ॥




Browse Related Categories: