View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - सप्तदशोऽध्यायः

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।
सभामध्ये न शोभंते जारगर्भा इव स्त्रियः ॥ 01 ॥

कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् ।
तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ 02 ॥

यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 03 ॥

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मंडनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ 04 ॥

पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरा ।
शंखो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥ 05 ॥

अशक्तस्तु भवेत्साधु-र्ब्रह्मचारी वा निर्धनः ।
व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ 06 ॥

नाऽन्नोदकसमं दानं न तिथिर्द्वादशी समा ।
न गायत्र्याः परो मंत्रो न मातुर्दैवतं परम् ॥ 07 ॥

तक्षकस्य विषं दंते मक्षिकायास्तु मस्तके ।
वृश्चिकस्य विषं पुच्छे सर्वांगे दुर्जने विषम् ॥ 08 ॥

पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ 09 ॥

न दानैः शुध्यते नारी नोपवासशतैरपि ।
न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥ 10 ॥

पादशेषं पीतशेषं संध्याशेषं तथैव च ।
श्वानमूत्रसमं तोयं पीत्वा चांद्रायणं चरेत् ॥ 11 ॥

दानेन पाणिर्न तु कंकणेन
स्नानेन शुद्धिर्न तु चंदनेन ।
मानेन तृप्तिर्न तु भोजनेन
ज्ञानेन मुक्तिर्न तु मुंडनेन ॥ 12 ॥

नापितस्य गृहे क्षौरं पाषाणे गंधलेपनम् ।
आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ 13 ॥

सद्यः प्रज्ञाहरा तुंडी सद्यः प्रज्ञाकरी वचा ।
सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥ 14 ॥

परोपकरणं येषां जागर्ति हृदये सताम् ।
नश्यंति विपदस्तेषां संपदः स्युः पदे पदे ॥ 15 ॥

यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः ।
तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ 16 ॥

आहारनिद्राभयमैथुनानि
समानि चैतानि नृणां पशूनाम् ।
ज्ञानं नराणामधिको विशेषो
ज्ञानेन हीनाः पशुभिः समानाः ॥ 17 ॥

दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः
दूरीकृताः करिवरेण मदांधबुद्ध्या ।
तस्यैव गंडयुग्ममंडनहानिरेषा
भृंगाः पुनर्विकचपद्मवने वसंति ॥ 18 ॥

राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ ।
परदुःखं न जानंति अष्टमो ग्रामकंटकः ॥ 19 ॥

अधः पश्यसि किं बाले पतितं तव किं भुवि ।
रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ 20 ॥

व्यालाश्रयापि विकलापि सकंटकापि
वक्रापि पंकिलभवापि दुरासदापि ।
गंधेन बंधुरसि केतकि सर्वजंता
रेको गुणः खलु निहंति समस्तदोषान् ॥ 21 ॥




Browse Related Categories: