अथ संकल्पः
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ श्री दश भैरव देवताभ्यो नमः
अथ चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानंद महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रं
शिवाय परमात्मने महाते पापनाशिने ।
नीललोहितदेहाय भैरवाय नमो नमः ॥
ब्रह्म शिरो विखंडिने ब्रह्म गर्व निपातिने ।
कालकालाय रुद्राय नमोभैरव शूलिने ॥
विष्णु मोह विनाशिने विष्णु सेवित शंभवे ।
विष्णु कीर्तित सोमाय कालभैरव ते नमः ॥
सर्वभूषित सर्वेशं चतुर्भुजं सुतेजसे ।
शिव तेजोद्भवं हरं श्री भैरवीपतिं भजे ॥
सद्रूपं सकलेश्वरं चिद्र्रूपं चिन्मयेश्वरम् ।
तपोवंतं महानंदं महाभैरव ते नमः ॥
नीलाय नीलकंठाय अनंताय परात्मने ।
भीमाय दुष्टमर्दिने कालभैरव ते नमः ॥
नमस्ते सर्वबीजाय नमस्ते सुखदायिने ।
नमस्ते दुःखनाशिने भैरवाय नमो नमः ॥
सुंदरं करुणानिधिं पावनं करुणामयम् ।
अघोरं करुणासिंधुं श्रिभैरवं नमाम्यहम् ॥
जटाधरं त्रिलोचनं जगत् पतिं वृषध्वजम् ।
जगन्मूर्तिं कपालिनिं श्रीभैरवं नंमामितम् ॥
असितांगः कपालश्च उन्मत्तः भीषणो रुरुः ।
क्रोधः संहार चंडश्च अष्टभैरव ते नमः ॥
कौमारी वैश्णवी चंडी इंद्राणी ब्राह्मणीसुधा ।
अष्टमातृक चामुंडा श्री वाराही महेश्वरी ॥
काशी क्षेत्र सदा स्थितं काशी क्षेत्र सुपालकम् ।
काशी जन समाराध्यं नमामि कालभैरवम् ॥
अष्टभैरव स्रष्टारं अष्टमातृ सुपूजितम् ।
सर्व भैरव नाथं च श्री काल भैरवं भजे ॥
विष्णु कीर्तित वेदेशं सर्व ऋषि नमस्कृतम् ।
पंच पातक नाशकं श्री काल भैरवं भजे ॥
सम्मोहन महारूपं चेतुर्वेद प्रकीर्तितम् ।
विराट् पुरुष महेशं श्री काल भैरवं भजे ॥
असितांगः चतुर्भुजः ब्रह्मणी मतृकापतिः ।
श्वेतवर्णो हंसारूढः प्राक् दिशा रक्षकः शिवः ॥
श्रीरुरुं वृषभारूढं आग्नेय दिक् सुपालकम् ।
नीलवर्णं महाशूरं महेश्वरीपतिं भजे ॥
मयूर वाहनः चंडः कौमारी मातृका प्रियः ।
रक्तवर्णो महाकालः दक्षिणा दिक् सुरक्षकः ॥
गरुड वाहनः क्रोधः वैष्णवी मातृका प्रभुः ।
ईशानो नीलवर्णश्च निरुती दिक् सुरक्षकः ॥
उन्मत्तः खड्गधारी च अश्वारूढो महोदरः ।
श्री वाराही मनोहरः पश्चिम दिक् सुरक्षकः ॥
कपालो हस्तिवाहनः इंद्राणी मातृकापतिः ।
स्वर्ण वर्णो महातेजाः वायव्यदिक् सुरक्षकः ॥
भीषणः प्रेतवाहनः चामुंडा मातृका विभुः ।
उत्तरदिक् सुपालकः रक्तवर्णो भयंकरः ॥
संहारः सिंहवाहनः श्री चंडी मातृकापतिः ।
अशभुजः प्राक्रमी ईशान्यदिक् सुपालकः ॥
तंत्र योगीश्वरेश्वरं तंत्र विद्या प्रदायकम् ।
ज्ञानदं सिद्धिदं शिवं मोक्षदं भैरवं भजे ॥
इति चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानंद महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रम् ॥