ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ ओ-म्ब्रह्मणे नमः ॥
॥ प्रथममुण्डके प्रथमः खण्डः ॥
ओ-म्ब्रह्मा देवाना-म्प्रथम-स्सम्बभूव विश्वस्य कर्ता
भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय
ज्येष्ठपुत्राय प्राह ॥ 1॥
अथर्वणे या-म्प्रवदेत ब्रह्मा-ऽथर्वा तं
पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवाहाय प्राह
भारद्वाजो-ऽङ्गिरसे परावराम् ॥ 2॥
शौनको ह वै महाशालो-ऽङ्गिरसं-विँधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं-विँज्ञात-म्भवतीति ॥ 3॥
तस्मै स होवाच ।
द्वे विद्ये वेदितव्ये इति ह स्म
यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ 4॥
तत्रापरा ऋग्वेदो यजुर्वेद-स्सामवेदो-ऽथर्ववेदः
शिक्षा कल्पो व्याकरण-न्निरुक्त-ञ्छन्दो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥ 5॥
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुस्श्रोत्र-न्तदपाणिपादम् ।
नित्यं-विँभुं सर्वगतं सुसूक्ष्मं
तदव्ययं-यँद्भूतयोनि-म्परिपश्यन्ति धीराः ॥ 6॥
यथोर्णनाभि-स्सृजते गृह्णते च
यथा पृथिव्यामोषधय-स्सम्भवन्ति ।
यथा सतः पुरुषा-त्केशलोमानि
तथा-ऽक्षरा-थ्सम्भवतीह विश्वम् ॥ 7॥
तपसा चीयते ब्रह्म ततो-ऽन्नमभिजायते ।
अन्ना-त्प्राणो मन-स्सत्यं-लोँकाः कर्मसु चामृतम् ॥ 8॥
य-स्सर्वज्ञ-स्सर्वविद्यस्य ज्ञानमय-न्तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्न-ञ्च जायते ॥ 9॥
॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥