॥ तृतीयमुण्डके द्वितीयः खण्डः ॥
स वेदैत-त्परम-म्ब्रह्म धाम
यत्र विश्व-न्निहित-म्भाति शुभ्रम् ।
उपासते पुरुषं-येँ ह्यकामास्ते
शुक्रमेतदतिवर्तन्ति धीराः ॥ 1॥
कामान् यः कामयते मन्यमानः
स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयन्ति कामाः ॥ 2॥
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ 3॥
नायमात्मा बलहीनेन लभ्यो
न च प्रमादा-त्तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वां-
स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ 4॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः
कृतात्मानो वीतरागाः प्रशान्ताः
ते सर्वगं सर्वतः प्राप्य धीरा
युक्तात्मान-स्सर्वमेवाविशन्ति ॥ 5॥
वेदान्तविज्ञानसुनिश्चितार्थाः
सन्न्यासयोगाद् यतय-श्शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्वे ॥ 6॥
गताः कलाः पञ्चदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा
परे-ऽव्यये सर्वे एकीभवन्ति ॥ 7॥
यथा नद्य-स्स्यन्दमाना-स्समुद्रे-ऽ
स्त-ङ्गच्छन्ति नामरूपे विहाय ।
तथा विद्वा-न्नामरूपाद्विमुक्तः
परात्पर-म्पुरुषमुपैति दिव्यम् ॥ 8॥
स यो ह वै त-त्परम-म्ब्रह्म वेद
ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।
तरति शोक-न्तरति पाप्मान-ङ्गुहाग्रन्थिभ्यो
विमुक्तो-ऽमृतो भवति ॥ 9॥
तदेतदृचा-ऽभ्युक्तम् ।
क्रियावन्त-श्श्रोत्रिया ब्रह्मनिष्ठाः
स्वय-ञ्जुह्वत एकर्षिं श्रद्धयन्तः ।
तेषामेवैता-म्ब्रह्मविद्यां-वँदेत
शिरोव्रतं-विँधिवद् यैस्तु चीर्णम् ॥ 10॥
तदेत-थ्सत्यमृषिरङ्गिराः
पुरोवाच नैतदचीर्णव्रतो-ऽधीते ।
नमः परमृषिभ्यो नमः परमृषिभ्यः ॥ 11॥
॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥
॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥
ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ ॐ शान्ति-श्शान्ति-श्शान्तिः ॥