॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥
आवि-स्सन्निहित-ङ्गुहाचर-न्नाम
महत्पदमत्रैत-थ्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ
सदसद्वरेण्य-म्परं-विँज्ञानाद्यद्वरिष्ठ-म्प्रजानाम् ॥ 1॥
यदर्चिमद्यदणुभ्यो-ऽणु च
यस्मिँल्लोका निहिता लोकिनश्च ।
तदेतदक्षर-म्ब्रह्म स प्राणस्तदु वाङ्मनः
तदेतत्सत्य-न्तदमृत-न्तद्वेद्धव्यं सोम्य विद्धि ॥ 2॥
धनुर् गृहीत्वौपनिषद-म्महास्त्रं
शरं ह्युपासा निशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्य-न्तदेवाक्षरं सोम्य विद्धि ॥ 3॥
प्रणवो धनु-श्शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरव-त्तन्मयो भवेत् ॥ 4॥
यस्मि-न्द्यौः पृथिवी चान्तरिक्षमोतं
मन-स्सह प्राणैश्च सर्वैः ।
तमेवैक-ञ्जानथ आत्मानमन्या वाचो
विमुञ्चथामृतस्यैष सेतुः ॥ 5॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषो-ऽन्तश्चरते बहुधा जायमानः ।
ओमित्येव-न्ध्यायथ आत्मानं स्वस्ति वः
पाराय तमसः परस्तात् ॥ 6॥
य-स्सर्वज्ञ-स्सर्वविद् यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितो-ऽन्ने हृदयं सन्निधाय ।
तद् विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं-यँद् विभाति ॥ 7॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मि-न्दृष्टे परावरे ॥ 8॥
हिरण्मये परे कोशे विरज-म्ब्रह्म निष्कलम् ।
तच्छुभ्र-ञ्ज्योतिष-ञ्ज्योतिस्तद् यदात्मविदो विदुः ॥ 9॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतो-ऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं-विँभाति ॥ 10॥
ब्रह्मैवेदममृत-म्पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्व-ञ्च प्रसृत-म्ब्रह्मैवेदं-विँश्वमिदं-वँरिष्ठम् ॥ 11॥
॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥