नमस्ते शारदे देवि काश्मीरपुरवासिनि
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ 1 ॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ 2 ॥
नमामि यामिनीं नाथलेखालंकृतकुंतलाम्
भवानीं भवसंतापनिर्वापणसुधानदीम् ॥ 3 ॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः
वेदवेदांगवेदांतविद्यास्थानेभ्य एव च ॥ 4 ॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ 5 ॥
यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत्
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ 6 ॥
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ 7 ॥
॥ इति श्रीमच्छंकराचार्यविरचिता शारदा प्रार्थन संपूर्णम् ॥