View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सुब्रह्मण्य भुजंग स्तोत्रम्

सदा बालरूपाऽपि विघ्नाद्रिहंत्री
महादंतिवक्त्राऽपि पंचास्यमान्या ।
विधींद्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥ 1 ॥

न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरंते गिरश्चापि चित्रम् ॥ 2 ॥

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम् ।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥ 3 ॥

यदा संनिधानं गता मानवा मे
भवांभोधिपारं गतास्ते तदैव ।
इति व्यंजयन्सिंधुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ 4 ॥

यथाब्धेस्तरंगा लयं यांति तुंगा-
स्तथैवापदः संनिधौ सेवतां मे ।
इतीवोर्मिपंक्तीर्नृणां दर्शयंतं
सदा भावये हृत्सरोजे गुहं तम् ॥ 5 ॥

गिरौ मन्निवासे नरा येऽधिरूढा-
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गंधशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ 6 ॥

महांभोधितीरे महापापचोरे
मुनींद्रानुकूले सुगंधाख्यशैले ।
गुहायां वसंतं स्वभासा लसंतं
जनार्तिं हरंतं श्रयामो गुहं तम् ॥ 7 ॥

लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसंछन्नमाणिक्यमंचे ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥ 8 ॥

रणद्धंसके मंजुलेऽत्यंतशोणे
मनोहारिलावण्यपीयूषपूर्णे ।
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कंद ते पादपद्मे ॥ 9 ॥

सुवर्णाभदिव्यांबरैर्भासमानां
क्वणत्किंकिणीमेखलाशोभमानाम् ।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कंद ते दीप्यमानाम् ॥ 10 ॥

पुलिंदेशकन्याघनाभोगतुंग-
स्तनालिंगनासक्तकाश्मीररागम् ।
नमस्याम्यहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥ 11 ॥

विधौ क्लृप्तदंडान्स्वलीलाधृतांडा-
न्निरस्तेभशुंडांद्विषत्कालदंडान् ।
हतेंद्रारिषंडान्जगत्राणशौंडा-
न्सदा ते प्रचंडान्श्रये बाहुदंडान् ॥ 12 ॥

सदा शारदाः षण्मृगांका यदि स्युः
समुद्यंत एव स्थिताश्चेत्समंतात् ।
सदा पूर्णबिंबाः कलंकैश्च हीना-
स्तदा त्वन्मुखानां ब्रुवे स्कंद साम्यम् ॥ 13 ॥

स्फुरन्मंदहासैः सहंसानि चंच-
त्कटाक्षावलीभृंगसंघोज्ज्वलानि ।
सुधास्यंदिबिंबाधराणीशसूनो
तवालोकये षण्मुखांभोरुहाणि ॥ 14 ॥

विशालेषु कर्णांतदीर्घेष्वजस्रं
दयास्यंदिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चे-
द्भवेत्ते दयाशील का नाम हानिः ॥ 15 ॥

सुतांगोद्भवो मेऽसि जीवेति षड्धा
जपन्मंत्रमीशो मुदा जिघ्रते यान् ।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ 16 ॥

स्फुरद्रत्नकेयूरहाराभिराम-
श्चलत्कुंडलश्रीलसद्गंडभागः ।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ 17 ॥

इहायाहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छंकरे मातुरंकात् ।
समुत्पत्य तातं श्रयंतं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ 18 ॥

कुमारेशसूनो गुह स्कंद सेना-
पते शक्तिपाणे मयूराधिरूढ ।
पुलिंदात्मजाकांत भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् ॥ 19 ॥

प्रशांतेंद्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कंपिगात्रे ।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ 20 ॥

कृतांतस्य दूतेषु चंडेषु कोपा-
द्दहच्छिंद्धि भिंद्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ 21 ॥

प्रणम्यासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यांतकाले मनागप्युपेक्षा ॥ 22 ॥

सहस्रांडभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममांतर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि ॥ 23 ॥

अहं सर्वदा दुःखभारावसन्नो
भवांदीनबंधुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा क्लृप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ 24 ॥

अपस्मारकुष्टक्षयार्शः प्रमेह-
ज्वरोन्मादगुल्मादिरोगा महांतः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवंते ॥ 25 ॥

दृशि स्कंदमूर्तिः श्रुतौ स्कंदकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे संतु लीना ममाशेषभावाः ॥ 26 ॥

मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः संति सर्वत्र देवाः ।
नृणामंत्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥ 27 ॥

कलत्रं सुता बंधुवर्गः पशुर्वा
नरो वाथ नारी गृहे ये मदीयाः ।
यजंतो नमंतः स्तुवंतो भवंतं
स्मरंतश्च ते संतु सर्वे कुमार ॥ 28 ॥

मृगाः पक्षिणो दंशका ये च दुष्टा-
स्तथा व्याधयो बाधका ये मदंगे ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यंतु ते चूर्णितक्रौंचशैल ॥ 29 ॥

जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश ॥ 30 ॥

नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिंधवे सिंधुदेशाय तुभ्यं
पुनः स्कंदमूर्ते नमस्ते नमोऽस्तु ॥ 31 ॥

जयानंदभूमं जयापारधामं
जयामोघकीर्ते जयानंदमूर्ते ।
जयानंदसिंधो जयाशेषबंधो
जय त्वं सदा मुक्तिदानेशसूनो ॥ 32 ॥

भुजंगाख्यवृत्तेन क्लृप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणम्य ।
स पुत्रान्कलत्रं धनं दीर्घमायु-
र्लभेत्स्कंदसायुज्यमंते नरः सः ॥ 33 ॥




Browse Related Categories: