View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मूक पंच शति 3 - स्तुति शतकम्

पांडित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयंते गिरां
वैरिंचान्यपि गुंफनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥1॥

तापिंछस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामांकसीमाजुषे ।
कंपातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे
विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥2॥

ये संध्यारुणयंति शंकरजटाकांतारचन्रार्भकं
सिंदूरंति च ये पुरंदरवधूसीमंतसीमांतरे ।
पुण्य.ं ये परिपक्कयंति भजतां कांचीपुरे माममी
पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥3॥

कामाडंबरपूरया शशिरुचा कम्रस्मितानां त्विषा
कामारेरनुरागसिंधुमधिकं कल्लोलितं तन्वती ।
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कंपातटे जृंभते ॥4॥

कामाक्षीणपराक्रमप्रकटनं संभावयंती दृशा
श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशांतरा ।
कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति कापि करुणा कंपातटिन्यास्तटे ॥5॥

श्यामा काचन चंद्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या कापि कादंबिनी ।
मारारातिमनोविमोहनविधौ काचितत्तमःकंदली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥6॥

प्रौढध्वांतकदंबके कुमुदिनीपुण्यांकुरं दर्शयन्
ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिंदीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते कांचीपुरे शूलिनः ॥7॥

तंद्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः
तारानाथकिशोरलांछितकचैस्ताम्रारविंदेक्षणैः ।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिंधमैः
कंपातीरचरैर्घनस्तनभरैः पुण्यांकरैः शांकरैः ॥8॥

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।
कांचीमध्यगतापि दीप्तिजननी विश्वांतरे जृंभते
काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥9॥

कांतैः केशरुचां चयैर्भ्रमरितं मंदस्मितैः पुष्पितं
कांत्या पल्लवितं पदांबुरुहयोर्नेत्रत्विषा पत्रितम् ।
कंपातीरवनांतरं विदधती कल्याणजन्मस्थली
कांचीमध्यमहामणिर्विजयते काचित्कृपाकंदली ॥10॥

राकाचंद्रसमानकांतिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधनीनीकाशवाग्वैभवम् ।
श्रीकांचीनगरीविहाररसिका शोकापहंत्री सताम्
एका पुण्यपरंपरा पशुपतेराकारिणी राजते ॥11॥

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी ।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती
कंपायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥12॥

ऐक्यं येन विरच्यते हरतनौ दंभावपुंभावुके
रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।
औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्
कंपातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥13॥

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्
उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।
माधुर्येण गिरां गतेन मृदुना हंसांगनां ह्रेपयन्
कांचीसीम्नि चकास्ति कोऽपि कवितासंतानबीजांकुरः ॥14॥

खंडं चांद्रमसं वतंसमनिशं कांचीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने ।
तारुण्योष्मनखंपचं स्तनभरं जंघास्पृशं कुंतलं
भाग्यं देशिकसंचितं मम कदा संपादयेदंबिके ॥15॥

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवंचनचुंचु किंचन भजे कांचीपुरीमंडनं
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥16॥

आलोके मुखपंकजे च दधती सौधाकरीं चातुरीं
चूडालंक्रियमाणपंकजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्यांचिता
कांचीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥17॥

यस्मिन्नंब भवत्कटाक्षरजनी मंदेऽपि मंदस्मित-
ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।
द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी
कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥18॥

कालिंदीजलकांतयः स्मितरुचिस्वर्वाहिनीपाथसि
प्रौढध्वांतरुचः स्फुटाधरमहोलौहित्यसंध्योदये ।
मणिक्योपलकुंडलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजंति ते ॥19॥

कलकलरणत्कांची कांचीविभूषणमालिका
कचभरलसच्चंद्रा चंद्रावतंससधर्मिणी ।
कविकुलगिरः श्रावंश्रावं मिलत्पुलकांकुरा
विरचितशिरःकंपा कंपातटे परिशोभते ॥20॥

सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिव विना कांचीभूषे कटाक्षतरंगितम् ॥21॥

भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया
नतजनतमःखंडी तुंडीरसीम्नि विजृंभते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥22॥

मधुरवचसो मंदस्मेरा मतंगजगामिनः
तरुणिमजुषस्तापिच्छाभास्तमःपरिपंथिनः ।
कुचभरनताः कुर्युर्भद्रं कुरंगविलोचनाः
कलितकरुणाः कांचीभाजः कपालिमहोत्सवाः ॥23॥

कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुंतलबंधुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपंचनचुंचवः
पुरविजयिनः कंपातीरे स्फुरंति मनोरथाः ॥24॥

कलितरतयः कांचीलीलाविधौ कविमंडली-
वचनलहरीवासंतीनां वसंतविभूतयः ।
कुशलविधये भूयासुर्मे कुरंगविलोचनाः
कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥25॥

कबलिततमस्कांडास्तुंडीरमंडलमंडनाः
सरसिजवनीसंतानानामरुंतुदशेखराः ।
नयनसरणेर्नेदीयंसः कदा नु भवंति मे
तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥26॥

अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मंजुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कंपातीरं त्रिलोचनसुंदरी ॥27॥

जननि भुवने चंक्रम्येऽहं कियंतमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः ।
तरुणकरुणे तंद्राशून्ये तरंगय लोचने
नमति मयि ते किंचित्कांचीपुरीमणिदीपिके ॥28॥

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-
विहरणकलागेहं कांचीपुरीमणिभूषणम् ।
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं मे पुरः परिजृंभताम् ॥29॥

मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितटप्राग्भारायाक्षराय परात्मने ।
विहरणजुषे कांचीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधांगणाय नमो नमः ॥30॥

मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम्
अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं कांचीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥31॥

प्रणमनदिनारंभे कंपानदीसखि तावके
सरसकवितोन्मेषः पूषा सतां समुदंचितः ।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥32॥

शमितजडिमारंभा कंपातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रितकुंतला ।
फलितसुमनोवांछा पांचायुधी परदेवता
सफलयतु मे नेत्रे गोत्रेश्वरप्रियनंदिनी ॥33॥

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुंतलाम् ।
जगति शमितस्तंभां कंपानदीनिलयामसौ
श्रियति हि गलत्तंद्रा चंद्रावतंससधर्मिणीम् ॥34॥

परिमलपरीपाकोद्रेकं पयोमुचि कांचने
शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कंबोर्लक्ष्मीमनंबुनि कोऽप्यसौ
कुसुमधनुषः कांचीदेशे चकास्ति पराक्रमः ॥35॥

पुरदमयितुर्वामोत्संगस्थलेन रसज्ञया
सरसकविताभाजा कांचीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥36॥

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं
विदधति गतौ व्याकुर्वाणा गजेंद्रचमत्क्रियाम् ।
मरतकरुचो माहेशाना घनस्तननम्रिताः
सुकृतविभवाः प्रांचः कांचीवतंसधुरंधराः ॥37॥

मनसिजयशःपारंपर्यं मरंदझरीसुवां
कविकुलगिरां कंदं कंपानदीतटमंडनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥38॥

शिथिलिततमोलीलां नीलारविंदविलोचनां
दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।
करधृतसच्छूलां कालारिचित्तहरां परां
मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥39॥

कलालीलाशाला कविकुलवचःकैरववनी-
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।
पुनीते नः कंपापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥40॥

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यंदि शिशिरम् ।
सदा वास्तवेभ्यः सुविधभुवि कंपाख्यसरिते
यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥41॥

असूयंती काचिन्मरकतरुचो नाकिमुकुटी-
कदंबं चुंबंती चरणनखचंद्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम कांचीर्निलयना
हरोत्संगश्रीमन्मणिगृहमहादीपकलिका ॥42॥

अनाद्यंता काचित्सुजननयनानंदजननी
निरुंधाना कांतिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयंती स्वयमहो
गलत्कंपा शंपा परिलसति कंपापरिसरे ॥43॥

सुधाडिंडीरश्रीः स्मितरुचिषु तुंडीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।
स्तनाभ्यामानम्रा स्तबकयतु मे कांक्षिततरुं
दृशामैशानीनां सुकृतफलपांडित्यगरिमा ॥44॥

कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां
निहंत्री संतापं निगममुकुटोत्तंसकलिका ।
परा कांचीलीलापरिचयवती पर्वतसुता
गिरां नीवी देवी गिरिशपरतंत्रा विजयते ॥45॥

कवित्वश्रीकंदः सुकृतपरिपाटी हिमगिरेः
विधात्री विश्वेषां विषमशरवीरध्वजपटी ।
सखी कंपानद्याः पदहसितपाथोजयुगली
पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥46॥

दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः
स्तनाभोगक्कांतास्तरुणहरिणांकांकितकचाः ।
हराधीना नानाविबुधमुकुटीचुंबितपदाः
कदा कंपातीरे कथय विहरामो गिरिसुते ॥47॥

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥48॥

क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥49॥

पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कंपातटविहृतिसंपादिनि दृशोः ।
इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-
परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥50॥

उदंचंती कांचीनगरनिलये त्वत्करुणया
समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥51॥

श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपंथिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥52॥

मनःस्तंभं स्तंभं गमयदुपकंपं प्रणमतां
सदा लोलं नीलं चिकुरजितलोलंबनिकरम् ।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः
दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥53॥

घनश्यामान्कामांतकमहिषि कामाक्षि मधुरान्
दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनश्शोके मूके हिमगिरिपताके करुणया ॥54॥

नतानां मंदानां भवनिगलबंधाकुलधियां
महांध्यां रुंधानामभिलषितसंतानलतिकाम् ।
चरंतीं कंपायास्तटभुवि सवित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥55॥

परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः ।
तमःपूरं दूरं चरणनतपौरंदरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥56॥

अहंताख्या मत्कं कबलयति हा हंत हरिणी
हठात्संविद्रूपं हरमहिषि सस्यांकुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः
इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥57॥

बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।
कथंकारं नास्मै करमुकुलचूडालमुकुटा
नमोवाकं ब्रूयुर्नमुचिपरिपंथिप्रभृतयः ॥58॥

प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि-
प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।
चरंतीं सौषुम्ने पथि परपदेंदुप्रविगल-
त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥59॥

जंभारातिप्रभृतिमुकुटीः पादयोः पीठयंती
गुंफान्वाचां कविजनकृतान्स्वैरमारामयंती ।
शंपालक्ष्मीं मणिगणरुचापाटलैः प्रापयंती
कंपातीरे कविपरिषदां जृंभते भाग्यसीमा ॥60॥

चंद्रापीडां चतुरवदनां चंचलापांगलीलां
कुंदस्मेरां कुचभरनतां कुंतलोद्धूतभृंगाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयंतीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥61॥

कालांभोदप्रकरसुषमां कांतिभिस्तिर्जयंती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कंदर्पारेः प्रियसहचरी कल्मषाणां निहंत्री
कांचीदेशं तिलकयति सा कापि कारुण्यसीमा ॥62॥

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले परिपंथ्यं वितन्वन् ।
कंपातीरे विहरति रुचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥63॥

कांचीलीलापरिचयवती कापि तापिच्छलक्ष्मीः
जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकंदश्रीर्मधुरकविताचातुरी कोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥64॥

सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयंती ।
कांचीभूषा पशुपतिदृशां कापि कालांजनाली
मत्कं दुःखं शिथिलयतु ते मंजुलापांगमाला ॥65॥

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
कांचीलीलाविहृतिरसिके कांक्षितं नः क्रियासुः
बंधच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥66॥

कालांभोदे शशिरुचि दलं कैतकं दर्शयंती
मध्येसौदामिनि मधुलिहां मालिकां राजयंती ।
हंसारावं विकचकमले मंजुमुल्लासयंती
कंपातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥67॥

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः
कांचीभूषा कलयतु शिवं कोऽपि चिंतामणिर्मे ॥68॥

ताम्रांभोजं जलदनिकटे तत्र बंधूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।
व्यावृन्वाना सुकृतलहरी कापि कांचिनगर्याम्
ऐशानी सा कलयतितरामैंद्रजालं विलासम् ॥69॥

आहारांशं त्रिदशसदसामाश्रये चातकानाम्
आकाशोपर्यपि च कलयन्नालयं तुंगमेषाम् ।
कंपातीरे विहरतितरां कामधेनुः कवीनां
मंदस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥70॥

आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः
आस्थापूर्णैरधिकचपलैरंचितांभोजशिल्पैः ।
कांतैर्लक्ष्मीललितभवनैः कांतिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥71॥

आधून्वंत्यै तरलनयनैरांगजीं वैजयंतीम्
आनंदिन्यै निजपदजुषामात्तकांचीपुरायै ।
आस्माकीनं हृदयमखिलैरागमानां प्रपंचैः
आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥72॥

दूरं वाचां त्रिदशसदसां दुःखसिंधोस्तरित्रं
मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।
कंपातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं
शांत्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥73॥

खंडीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शुंडीरत्वं निजपदजुषां शून्यतंद्रं दिशंती ।
तुंडीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री
चंडी देवी कलयति रतिं चंद्रचूडालचूडे ॥74॥

येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।
यत्प्रीत्यैव त्रिजगदधिपो जृंभते किंपचानः
कंपातीरे स जयति महान्कश्चिदोजोविशेषः ॥75॥

धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे
निंद्यां भिंद्यात्सपदि जडतां कल्मषादुन्मिषंतीम् ।
साध्वी माध्वीरसमधुरताभंजिनी मंजुरीतिः
वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥76॥

यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरंदैः ।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य कांची
सा मे सोमाभरणमहिषी साधयेत्कांक्षितानि ॥77॥

एका माता सकलजगतामीयुषी ध्यानमुद्राम्
एकाम्राधीश्वरचरणयोरेकतानां समिंधे ।
ताटंकोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा
तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥78॥

दंतादंतिप्रकटनकरी दंतिभिर्मंदयानैः
मंदाराणां मदपरिणतिं मथ्नती मंदहासैः ।
अंकूराभ्यां मनसिजतरोरंकितोराः कुचाभ्या-
मंतःकांचि स्फुरति जगतामादिमा कापि माता ॥79॥

त्रियंबककुटुंबिनीं त्रिपुरसुंदरीमिंदिरां
पुलिंदपतिसुंदरीं त्रिपुरभैरवीं भारतीम् ।
मतंगकुलनायिकां महिषमर्दनीं मातृकां
भणंति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥80॥

महामुनिमनोनटी महितरम्यकंपातटी-
कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिंकरी मम विभूतये शांकरी ॥81॥

जडाः प्रकृतिनिर्धना जनविलोचनारुंतुदा
नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।
वचस्सु मधुमाधुरीं प्रकटयंति पौरंदरी-
विभूतिषु विडंबनां वपुषि मान्मथीं प्रक्रियाम् ॥82॥

घन्सतनतटस्फुटस्फुरितकंचुलीचंचली-
कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु कांचीपुरे
परा परमयोगिनां मनसि चित्कुला पुष्कला ॥83॥

कवींद्रहृदयेचरी परिगृहीतकांचीपुरी
निरूढकरुणाझरी निखिललोकरक्षाकरी ।
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥84॥

धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहेतरां मनसि किं च कांचीरत-
स्मरांतककुटुंबिनीचरणपल्लवोपासनाम् ॥85॥

सुराः परिजना वपुर्मनसिजाय वैरायते
त्रिविष्टपनितंबिनीकुचतटी च केलीगिरिः ।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥86॥

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककंचुलीदायिभिः ।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः
निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥87॥

कदा कलितखेलनाः करुणयैव कांचीपुरे
कलायमुकुलत्विषः शुभकदंबपूर्णांकुराः ।
पयोधरभरालसाः कविजनेषु ते बंधुराः
पचेलिमकृपारसा परिपतंति मार्गे दृशोः ॥88॥

अशोध्यमचलोद्भवं हृदयनंदनं देहिनाम्
अनर्घमधिकांचि तत्किमपि रत्नमुद्द्योतते ।
अनेन समलंकृता जयति शंकरांकस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥89॥

परामृतझरीप्लुता जयति नित्यमंतश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका ।
महद्भिरपरोक्षिता सततमेव कांचीपुरे
ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥90॥

तमोविपिनधाविनं सततमेव कांचीपुरे
विहाररसिका परा परमसंविदुर्वीरुहे ।
कटाक्षनिगलैर्दृढं हृदयदुष्टदंतावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमंतिनी ॥91॥

त्वमेव सति चंडिका त्वमसि देवि चामुंडिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शांभवी त्वमसि कामकोटी जया
त्वमेव विजया त्वयि त्रिजगदंब किं ब्रूमहे ॥92॥

परे जननि पार्वति प्रणतपालिनि प्रातिभ-
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।
त्रियंबककुटुंबिनि त्रिपदसंगिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥93॥

मनोमधुकरोत्सवं विदधती मनीषाजुषां
स्वयंप्रभववैखरीविपिनवीथिकालंबिनी ।
अहो शिशिरिता कृपामधुरसेन कंपातटे
चराचरविधायिनी चलति कापि चिन्मंजरी ॥94॥

कलावति कलाभृतो मुकुटसीम्नि लीलावति
स्पृहावति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपांबुधारावति ॥95॥

त्वयैव जगदंबया भुवनमंडलं सूयते
त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति संततं स्थीयते ॥96॥

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयीं
परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥97॥

जय जगदंबिके हरकुटुंबिनि वक्त्ररुचा
जितशरदंबुजे घनविडंबिनि केशरुचा ।
परमवलंबनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडंबरतांडविनः ॥98॥

भुवनजननि भूषाभूतचंद्रे नमस्ते
कलुषशमनि कंपातीरगेहे नमस्ते ।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते ॥99॥

क्वणत्कांची कांचीपुरमणिविपंचीलयझरी-
शिरःकंपा कंपावसतिरनुकंपाजलनिधिः ।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥100॥

समरविजयकोटी साधकानंदधाटी
मृदुगुणपरिपेटी मुख्यकादंबवाटी ।
मुनिनुतपरिपाटी मोहिताजांडकोटी
परमशिववधूटी पातु मां कामकोटी ॥101॥

इमं परवरप्रदं प्रकृतिपेशलं पावनं
परापरचिदाकृतिप्रकटनप्रदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयन्नंबिकां
जपैरलमलं मखैरधिकदेहसंशोषणैः ॥102॥

॥ इति स्तुतिशतकं संपूर्णम् ॥




Browse Related Categories: