View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री षष्ठी देवी स्तोत्रम्

ध्यानम्
श्रीमन्मातरमंबिकां विधिमनोजातां सदाभीष्टदां
स्कंदेष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।
सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परं भगवतीं श्रीदेवसेनां भजे ॥ 1 ॥

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रतां
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ।
श्वेतचंपकवर्णाभां रक्तभूषणभूषितां
पवित्ररूपां परमं देवसेना परां भजे ॥ 2 ॥

स्तोत्रम्
नमो देव्यै महादेव्यै सिद्ध्यै शांत्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ 1 ॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ 2 ॥

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ 3 ॥

सारायै शारदायै च परादेव्यै नमो नमः ।
बालाधिष्टातृदेव्यै च षष्ठीदेव्यै नमो नमः ॥ 4 ॥

कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ।
प्रत्यक्षायै सर्वभक्तानां षष्ठीदेव्यै नमो नमः ॥ 5 ॥

पूज्यायै स्कंदकांतायै सर्वेषां सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥ 6 ॥

शुद्धसत्त्वस्वरूपायै वंदितायै नृणां सदा ।
हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ॥ 7 ॥

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।
मानं देहि जयं देहि द्विषो जहि महेश्वरि ॥ 8 ॥

धर्मं देहि यशो देहि षष्ठीदेवी नमो नमः ।
देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ 9 ॥

फलशृति
इति देवीं च संस्तुत्य लभेत्पुत्रं प्रियव्रतम् ।
यशश्विनं च राजेंद्रं षष्ठीदेवि प्रसादतः ॥ 10 ॥

षष्ठीस्तोत्रमिदं ब्रह्मान् यः शृणोति तु वत्सरम् ।
अपुत्रो लभते पुत्रं वरं सुचिर जीवनम् ॥ 11 ॥

वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च ।
सर्वपापाद्विनिर्मुक्ता महावंध्या प्रसूयते ॥ 12 ॥

वीरं पुत्रं च गुणिनं विद्यावंतं यशस्विनम् ।
सुचिरायुष्यवंतं च सूते देवि प्रसादतः ॥ 13 ॥

काकवंध्या च या नारी मृतवत्सा च या भवेत् ।
वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवि प्रसादतः ॥ 14 ॥

रोगयुक्ते च बाले च पितामाता शृणोति चेत् ।
मासेन मुच्यते रोगान् षष्ठीदेवि प्रसादतः ॥ 15 ॥

जय देवि जगन्मातः जगदानंदकारिणि ।
प्रसीद मम कल्याणि नमस्ते षष्ठीदेवते ॥ 16 ॥

इति श्री षष्ठीदेवि स्तोत्रम् ।




Browse Related Categories: