View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मूक पंच शति 2 - पादारविंद शतकम्

महिम्नः पंथानं मदनपरिपंथिप्रणयिनि
प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः ।
तथापि श्रीकांचीविहृतिरसिके कोऽपि मनसो
विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥1॥

गलग्राही पौरंदरपुरवनीपल्लवरुचां
धृतपाथम्यानामरुणमहसामादिमगुरुः ।
समिंधे बंधूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥2॥

मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्कांडप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥3॥

वहंती सैंदूरीं सरणिमवनम्रामरपुऱी-
पुरंध्रीसीमंते कविकमलबालार्कसुषमा ।
त्रयीसीमंतिन्याः स्तनतटनिचोलारुणपटी
विभांती कामाक्ष्याः पदनलिनकांतिर्विजयते ॥4॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः
स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कांतिं वहति सुषमाभिश्चरणयोः
तयोर्मे कामाक्ष्या हृदयमपतंद्रं विहरताम् ॥5॥

ययोः पीठायंते विबुधमुकुटीनां पटलिका
ययोः सौधायंते स्वयमुदयभाजो भणितयः ।
ययोः दासायंते सरसिजभवाद्याश्चरणयोः
तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥6॥

नयंती संकोचं सरसिजरुचं दिक्परिसरे
सृजंती लौहित्यं नखकिरणचंद्रार्धखचिता ।
कवींद्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरंती कामाक्ष्याः चरणरुचिसंध्या विजयते ॥7॥

विरावैर्मांजीरैः किमपि कथयंतीव मधुरं
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥8॥

सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
भृतं कांत्यंभोभिः विसृमरमरंदैः सरसिजैः
विधत्ते कामाक्ष्याः चरणयुगलं बंधुपदवीम् ॥9॥

रजःसंसर्गेऽपि स्थितमरजसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।
अलभ्यं मंदानां दधदपि सदा मंदगतितां
विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥10॥

जटाला मंजीरस्फुरदरुणरत्नांशुनिकरैः
निषिदंती मध्ये नखरुचिझरीगांगपयसाम् ।
जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥11॥

तुलाकोटिद्वंद्वक्कणितभणिताभीतिवचसोः
विनम्रं कामाक्षी विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
पुनीयान्मूर्धानं पुरहरपुरंध्री चरणयोः ॥12॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।
ययोर्लाक्षाबिंदुस्फुरणधरणाद्ध्वर्जटिजटा-
कुटीरा शोणांकं वहति वपुरेणांककलिका ॥13॥

पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणाः परशिवे ।
कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा
वलंतो व्यातन्वंत्यहमहमिकां माधवमुखाः ॥14॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालांबुदकुले ।
स्फुरंतः कामाक्षि स्फुटदलितबंधूकसुहृद-
स्तटिल्लेखायंते तव चरणपाथोजकिरणाः ॥15॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥16॥

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासंगो विफलितजगज्जाड्यगरिमा ।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्कांडद्रोही तव चरणपाथोजरमणः ॥17॥

नमस्कुर्मः प्रेंखन्मणिकटकनीलोत्पलमहः-
पयोधौ रिंखद्भिर्नखकिरणफेनैर्धवलिते ।
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥18॥

शिवे पाशायेतामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने ।
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥19॥

निषक्तं श्रुत्यंते नयनमिव सद्वृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे
त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥20॥

नमस्यासंसज्जन्नमुचिपरिपंथिप्रणयिनी-
निसर्गप्रेंखोलत्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥21॥

कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महांतं संतापं मदनपरिपंथिप्रियतमे ।
क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥22॥

ययोः सांध्यं रोचिः सततमरुणिम्ने स्पृहयते
ययोश्चांद्री कांतिः परिपतति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥23॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वांतैः कुशलधिषणैः शास्त्रसरणौ ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदंपर्यं तव चरणपद्मं विजयते ॥24॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशद्यं कलितरसमानंदसुधया ।
अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरंतस्स्थं तव चरणरत्नं मृगयते ॥25॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः
दरिद्राणीकुर्वंदिनकरसहस्राणि किरणैः ।
विधत्तां कामाक्षि प्रसृमरतमोवंचनचणः
क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥26॥

कवीनां चेतोवन्नखररुचिसंपर्कि विबुध-
स्रवंतीस्रोतोवत्पटुमुखरितं हंसकरवैः ।
दिनारंभश्रीवन्नियतमरुणच्छायसुभगं
मदंतः कामाक्ष्याः स्फुरतु पदपंकेरुहयुगम् ॥27॥

सदा किं संपर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः
तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
विभिंते संमोहं शिशिरयति भक्तानपि दृशाम्
अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥28॥

पवित्राभ्यामंब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरंभोजैरपि च वनवासव्रतदशाः
सदैवारभ्यंते परिचरितनानाद्विजगणैः ॥29॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं
निरस्यंती जाड्यं नियतजडमध्यैकशरणम् ।
अदोषव्यासंगा सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥30॥

सुराणामानंदप्रबलनतया मंडनतया
नखेंदुज्योत्स्नाभिर्विसृमरतमःखंडनतया ।
पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः
विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥31॥

सितिम्ना कांतीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने ।
लभंते मंदारग्रथितनवबंधूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥32॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्जं चक्रं दरमपि च लेखात्मकतया ।
श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां
त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥33॥

नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः
पिशंगैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शंके सकलफलदाता सुरतरुः
त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥34॥

वषट्कुर्वन्मांजीरकलकलैः कर्मलहरी-
हवींषि प्रौद्दंडं ज्वलति परमज्ञानदहने ।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥35॥

महामंत्रं किंचिन्मणिकटकनादैर्मृदु जपन्
क्षिपंदिक्षु स्वच्छं नखरुचिमयं भास्मनरजः ।
नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता-
पिशाचीं पादोऽयं प्रकटयति ते मांत्रिकदशाम् ॥36॥

उदीते बोधेंदौ तमसि नितरां जग्मुषि दशां
दरिद्रां कामाक्षि प्रकटमनुरागं विदधती ।
सितेनाच्छाद्यांगं नखरुचिपटेनांघ्रियुगली-
पुरंध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥37॥

दिनारंभः संपन्नलिनविपिनानामभिनवो
विकासो वासंतः सुकविपिकलोकस्य नियतः ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥38॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम् ।
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पदं ते पातंगीं परिकलयते पर्वतसुते ॥39॥

शनैस्तीर्त्वा मोहांबुधिमथ समारोढुमनसः
क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् ।
लभंते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमंतिनि जनाः ॥40॥

प्रचंडार्तिक्षोभप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दंडीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण-
प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥41॥

मरुद्भिः संसेव्या सततमपि चांचल्यरहिता
सदारुण्यं यांती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्मांजीरककलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥42॥

जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा
समैर्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥43॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ ।
नखैः स्मेरौ सारौ निगमवचसां खंडितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥44॥

अविश्रांतं पंकं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रणमनजुषां पंकमखिलम् ।
तुलाकोटिद्वंदं दधदपि च गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लंघयति ते ॥45॥

प्रवालं सव्रीलं विपिनविवरे वेपयति या
स्फुरल्लीलं बालातपमधिकबालं वदति या ।
रुचिं सांध्यां वंध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥46॥

किरंज्योत्स्नारीतिं नखमुखरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणांभोरुहरुचिः ।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥47॥

नखांकूरस्मेरद्युतिविमलगंगांभसि सुखं
कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदंचन्मंजीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥48॥

भवांभोधौ नौकां जडिमविपिने पावकशिखा-
ममर्त्येंद्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापे ज्योत्स्नामकृतकवचःपंजरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥49॥

परत्मप्राकाश्यप्रतिफलनचुंचुः प्रणमतां
मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते ।
यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां
विधातुं चेष्ठंते बलरिपुवधूटीकचभराः ॥50॥

अविश्रांतं तिष्ठन्नकृतकवचःकंदरपुटी-
कुटीरांतः प्रौढं नखरुचिसटालीं प्रकटयन् ।
प्रचंडं खंडत्वं नयतु मम कामाक्षि तरसा
तमोवेतंडेंद्रं तव चरणकंठीरवपतिः ॥51॥

पुरस्तात्कामाक्षि प्रचुररसमाखंडलपुरी-
पुरंध्रीणां लास्यं तव ललितमालोक्य शनकैः ।
नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शंके चरणयुगली चाटुरचनाः ॥52॥

सरोजं निंदंती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः ।
स्फुरंती कामाक्षि स्फुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥53॥

नतानां संपत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तंभनजपः ।
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमंजीरनिनदः ॥54॥

वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदांभोजन्यासं पशुपरिबृढप्राणदयिते ।
पिबंतो यन्मुद्रां प्रकटमुपकंपापरिसरं
दृशा नानंद्यंते नलिनभवनारायणमुखाः ॥55॥

प्रणामोद्यद्बृंदारमुकुटमंदारकलिका-
विलोलल्लोलंबप्रकरमयधूमप्रचुरिमा ।
प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-
कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥56॥

वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः
जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा
वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥57॥

समंतात्कामाक्षि क्षततिमिरसंतानसुभगान्
अनंताभिर्भाभिर्दिनमनु दिगंतान्विरचयन् ।
अहंताया हंता मम जडिमदंतावलहरिः
विभिंतां संतापं तव चरणचिंतामणिरसौ ॥58॥

दधानो भास्वत्ताममृतनिलयो लोहितवपुः
विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मंदो गंगाधरमहिषि कामाक्षि भजतां
तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥59॥

नयंतीं दासत्वं नलिनभवमुख्यानसुलभ-
प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो-
र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥60॥

जनोऽयं संतप्तो जननि भवचंडांशुकिरणैः
अलब्धवैकं शीतं कणमपि परज्ञानपयसः ।
तमोमार्गे पांथस्तव झटिति कामाक्षि शिशिरां
पदांभोजच्छायां परमशिवजाये मृगयते ॥61॥

जयत्यंब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥62॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-
श्रियो मूलद्रव्यं तव चरणमद्रींद्रतनये ।
सुरेंद्राशामापूरयति यदसौ ध्वांतमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥63॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वाधिवसतिं
प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥64॥

विवेकांभस्स्रोतस्स्नपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥65॥

दधानो मंदारस्तबकपरिपाटीं नखरुचा
वहंदीप्तां शोणांगुलिपटलचांपेयकलिकाम् ।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासंतः समय इव ते शर्वदयिते ॥66॥

नखांशुप्राचुर्यप्रसृमरमरालालिधवलः
स्फुरन्मंजीरोद्यन्मरकतमहश्शैवलयुतः ।
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोणाभिख्यो नगपतितनूजे विजयते ॥67॥

धुनानं पंकौघं परमसुलभं कंटककुलैः
विकासव्यासंगं विदधदपराधीनमनिशम् ।
नखेंदुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम्
असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥68॥

करींद्राय द्रुह्यत्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदांभोजद्वंद्वं तव तदपि कामाक्षि हृदयं
मुनीनां शांतानां कथमनिशमस्मै स्पृहयते ॥69॥

निरस्ता शोणिम्ना चरणकिरणानां तव शिवे
समिंधाना संध्यारुचिरचलराजन्यतनये ।
असामर्थ्यादेनं परिभवितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥70॥

उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शंके मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तंद्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥71॥

दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः
द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः
विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥72॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनींद्राणामंतःकरणशरणौ मंदसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥73॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः ।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥74॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥75॥

कथं वाचालोऽपि प्रकटमणिमंजीरनिनदैः
सदैवानंदार्द्रान्विरचयति वाचंयमजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥76॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया
मुहुर्भ्रांतस्तांतः परमशिववामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्मांबुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥77॥

विशुष्यंत्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।
त्वदीयः कामाक्षि स्फुरितचरणांभोदमहिमा
नभोमासाटोपं नगपतिसुते किं न कुरुते ॥78॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण-
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णंती शांतिं शलभपरिपाटीव भजते ॥79॥

विराजंती शुक्तिर्नखकिरणमुक्तामणिततेः
विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।
त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने
मुनीनां ज्ञानाग्नेररणिरयमंघिर्विजयते ॥80॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गंधर्वस्त्रीसुललितविपंचीकलरवैः ।
भवत्या भिंदानो भवगिरिकुलं जृंभिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥81॥

वसंतं भक्तानामपि मनसि नित्यं परिलसद्-
घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् ।
नखेंदुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥82॥

कवींद्राणां नानाभणितिगुणचित्रीकृतवचः-
प्रपंचव्यापारप्रकटनकलाकौशलनिधिः ।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः
नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥83॥

भवत्याः कामाक्षि स्फुरितपदपंकेरुहभुवां
परागाणां पूरैः परिहृतकलंकव्यतिकरैः ।
नतानामामृष्टे हृदयमुकुरे निर्मलरुचि
प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥84॥

तव त्रस्तं पादात्किसलयमरण्यांतरमगात्
परं रेखारूपं कमलममुमेवाश्रितमभूत् ।
जितानां कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं वा निजरिपोः ॥85॥

गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा-
कटाक्षर्कज्योतिश्शमितममताबंधतमसः ।
यतंते कामाक्षि प्रतिदिवसमंतर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥86॥

जडानामप्यंब स्मरणसमये तवच्चरणयोः
भ्रमन्मंथक्ष्माभृद्धुमुघुमितसिंधुप्रतिभटाः ।
प्रसन्नाः कामाक्षि प्रसभमधरस्पंदनकरा
भवंति स्वच्छंदं प्रकृतिपरिपक्का भणितयः ॥87॥

वहन्नप्यश्रांतं मधुरनिनदं हंसकमसौ
तमेवाधः कर्तुं किमिव यतते केलिगमने ।
भवस्यैवानंदं विदधदपि कामाक्षि चरणो
भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥88॥

यदत्यंतं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।
किरीटैः संघट्टं कथमिव सुरौघस्य सहते
मुनींद्राणामास्ते मनसि च कथं सूचिनिशिते ॥89॥

मनोरंगे मत्के विबुधजनसंमोदजननी
सरागव्यासंगं सरसमृदुसंचारसुभगा ।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मंजीरा ते चरणयुगलीनर्तकवधूः ॥90॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥91॥

प्रसूनैः संपर्कादमरतरुणीकुंतलभवैः
अभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसंगात्कंकेलिप्रसवजनकत्वेन च शिवे
त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥92॥

महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि तरसा
किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥93॥

सदा स्वादुंकारं विषयलहरीशालिकणिकां
समास्वाद्य श्रांतं हृदयशुकपोतं जननि मे ।
कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात्
गृहीत्वा रुंधीथारस्तव पदयुगीपंजरपुटे ॥94॥

धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थिति निगमनैकुंजकुहरे ।
अलभ्यं सर्वेषां कतिचन लभंते सुकृतिनः
चिरादन्विष्यंतस्तव चरणसिद्धौषधमिदम् ॥95॥

रणन्मंजीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा ।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥96॥

सुरागे राकेंदुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा ।
मनोभृंगो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥97॥

शिवे संविद्रूपे शशिशकलचूडप्रियतमे
शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते ।
यतंते संतस्ते चरणनलिनालानयुगले
सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥98॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते ।
सतां पाशग्रंथिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥99॥

मनीषां माहेंद्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः ।
यदीये संपर्के धृतरसमरंदा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥100॥

पुरा मारारातिः पुरमजयदंब स्तवशतैः
प्रसन्नायां सत्यां त्वयि तुहिनशैलेंद्रतनये ।
अतस्ते कामाक्षि स्फुरतु तरसा कालसमये
समायाते मातर्मम मनसि पादाब्जयुगलम् ॥101॥

पदद्वंद्वं मंदं गतिषु निवसंतं हृदि सतां
गिरामंते भ्रांतं कृतकरहितानां परिबृढे ।
जनानामानंदं जननि जनयंतं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥102॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् ।
स विश्वेषां वंद्यः सकलकविलोकैकतिलकः
चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥103॥

॥ इति पादारविंदशतकं संपूर्णम् ॥




Browse Related Categories: