View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

आद्य कालिका अष्टोत्तर शत नामावलिः

श्रीसदाशिव उवाच
शृणु देवि जगद्वंद्ये स्तोत्रमेतदनुत्तमम् ।
पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ 1 ॥

असौभाग्यप्रशमनं सुखसंपद्विवर्धनम् ।
अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ 2 ॥

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।
स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥ 3 ॥

स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
छंदोऽनुष्टुब्देवताद्या कालिका परिकीर्तिता ।
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ 4 ॥

अथ स्तोत्रम्
ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ 5 ॥

कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतसागरा ॥ 6 ॥

कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानंदविवर्धिनी ॥ 7 ॥

कालरात्रिः कामरूपा कामपाशविमोचिनी ।
कादंबिनी कलाधारा कलिकल्मषनाशिनी ॥ 8 ॥

कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानंदा कुमारीरूपधारिणी ॥ 9 ॥

कदंबवनसंचारा कदंबवनवासिनी ।
कदंबपुष्पसंतोषा कदंबपुष्पमालिनी ॥ 10 ॥

किशोरी कलकंठा च कलनादनिनादिनी ।
कादंबरीपानरता तथा कादंबरीप्रिया ॥ 11 ॥

कपालपात्रनिरता कंकालमाल्यधारिणी ।
कमलासनसंतुष्टा कमलासनवासिनी ॥ 12 ॥

कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ 13 ॥

कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥ 14 ॥

कमनीयगुणाराध्या कोमलांगी कृशोदरी ।
कारणामृतसंतोषा कारणानंदसिद्धिदा ॥ 15 ॥

कारणानंदजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ 16 ॥

कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ 17 ॥

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ 18 ॥

कर्पूरमालाभरणा कर्पूरचंदनोक्षिता ।
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ 19 ॥

कर्पूरसागरस्नाता कर्पूरसागरालया ।
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ 20 ॥

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ 21 ॥

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ 22 ॥

कलमंजीरचरणा क्वणत्कांचीविभूषणा ।
कांचनाद्रिकृतागारा कांचनाचलकौमुदी ॥ 23 ॥

कामबीजजपानंदा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ 24 ॥

क्रीं ह्रीं श्रीं मंत्रवर्णेन कालकंटकघातिनी ।
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ 25 ॥

ककारकूटघटितं कालीरूपस्वरूपकम् ।
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ 26 ॥

मंत्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ।
बुद्धिं विद्यां च लभते गुरोरादेशमात्रतः ॥ 27 ॥

धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ।
पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ 28 ॥

भौमावास्यानिशाभागे मपंचकसमन्वितः ।
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ 29 ॥

पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ।
नासाध्यं विद्यते तस्य त्रिषु लोकेषु किंचन ॥ 30 ॥

विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।
समुद्र इव गांभीर्ये बले च पवनोपमः ॥ 31 ॥

तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः ।
रूपे मूर्तिधरः कामो योषितां हृदयंगमः ॥ 32 ॥

सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ 33 ॥

तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
रणे राजकुले द्यूते विवादे प्राणसंकटे ॥ 34 ॥

दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ।
अरण्ये प्रांतरे दुर्गे ग्रहराजभयेऽपि वा ॥ 35 ॥

ज्वरदाहे चिरव्याधौ महारोगादिसंकुले ।
बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥ 36 ॥

दुस्तरे सलिले वापि पोते वातविपद्गते ।
विचिंत्य परमां मायामाद्यां कालीं परात्पराम् ॥ 37 ॥

यः पठेच्छतनामानि दृढभक्तिसमन्वितः ।
सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ 38 ॥

न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् ।
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ 39 ॥

तस्य दर्शनमात्रेण पलायंते विपद्गणाः ।
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसंपदाम् ॥ 40 ॥

स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ।
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ 41 ॥

तन्नाम्ना मानवाः सर्वे प्रणमंति ससंभ्रमाः ।
दृष्ट्या तस्य तृणायंते ह्यणिमाद्यष्टसिद्धयः ॥ 42 ॥

आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ।
अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ॥ 43 ॥

पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ।
शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ 44 ॥

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ 45 ॥

इति महानिर्वाणतंत्रे सप्तमोल्लासांतर्गतं श्री आद्या कालिका शतनाम स्तोत्रम् ॥




Browse Related Categories: