View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

उद्धवगीता - षष्ठोऽध्यायः

अथ षष्ठोऽध्यायः ।

श्रीशुकः उवाच ।
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् ।
भवः च भूतभव्यीशः ययौ भूतगणैः वृतः ॥ 1॥

इंद्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अंगिरसः रुद्राः विश्वे साध्याः च देवताः ॥ 2॥

गंधर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ 3॥

द्वारकां उपसंजग्मुः सर्वे कृष्णादिदृक्षवः ।
वपुषा येन भगवान् नरलोकमनोरमः ।
यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ 4॥

तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः ।
व्यचक्षत अवितृप्ताक्षाः कृष्णं अद्भुतदर्शनम् ॥

5॥

स्वर्गौद्यानौअपगैः माल्यैः छादयंतः यदु उत्तमम् ।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥6॥

देवाः ऊचुः ।
नताः स्म ते नाथ पदारविंदं
बुद्धींद्रियप्राणमनोवचोभिः ।
यत् चिंत्यते अंतर्हृदि भावयुक्तैः
मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ 7॥

त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं
व्यक्तं सृजसि अवसि लुंपसि तत् गुणस्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ 8॥

शुद्धिः नृणां न तु तथा ईड्य दुराशयानां
विद्याश्रुताध्ययनदानतपक्रियाभिः ।
सत्त्वात्मनां ऋषभ ते यशसि प्रवृद्ध
सत् श्रद्धया श्रवणसंभृतया यथा स्यात् ॥ 9॥

स्यात् नः तव अंघ्रिः अशुभाशयधूमकेतुः
क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः ।
यः सात्वतैः समविभूतयः आत्मवद्भिः
व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ 10॥

यः चिंत्यते प्रयतपाणिभिः अध्वराग्नौ
त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा ।
अध्यात्मयोगः उत योगिभिः आत्ममायां
जिज्ञासुभिः परमभागवतैः परीष्टः ॥ 11॥

पर्युष्टया तव विभो वनमालया इयं
संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः ।
यः सुप्रणीतं अमुयार्हणं आदत् अन्नः
भूयात् सदा अंघ्रिः अशुभाशयधूमकेतुः ॥ 12॥

केतुः त्रिविक्रमयुतः त्रिपत् पताकः
यः ते भयाभयकरः असुरदेवचम्वोः ।
स्वर्गाय साधुषु खलु एषु इतराय भूमन्
पादः पुनातु भगवन् भजतां अधं नः ॥ 13॥

नस्योतगावः इव यस्य वशे भवंति
ब्रह्मादयः अनुभृतः मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयोः परस्य
शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ 14॥

अस्य असि हेतुः उदयस्थितिसंयमानां
अव्यक्तजीवमहतां अपि कालं आहुः ।
सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः
कालः गभीररयः उत्तमपूरुषः त्वम् ॥ 15॥

त्वत्तः पुमान् समधिगम्य यया स्ववीर्य
धत्ते महांतं इव गर्भं अमोघवीर्यः ।
सः अयं तया अनुगतः आत्मनः आंडकोशं
हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ 16॥

तत्तस्थुषः च जगतः च भवान् अधीशः
यत् मायया उत्थगुणविक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीकपते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ 17॥

स्माया अवलोकलवदर्शितभावहारि
भ्रूमंडलप्रहितसौरतमंत्रशौंडैः ।
पत्न्यः तु षोडशसहस्रं अनंगबाणैः
यस्य इंद्रियं विमथितुं करणैः विभ्व्यः ॥ 18॥

विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः
पादौ अनेजसरितः शमलानि हंतुम् ।
आनुश्रवं श्रुतिभिः अंघ्रिजं अंगसंगैः
तीर्थद्वयं शुचिषदस्तः उपस्पृशंति ॥ 19॥

बादरायणिः उवाच ।
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् ।
अभ्यभाषत गोविंदं प्रणम्य अंबरं आश्रितः ॥ 20॥

ब्रह्म उवाच ।
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो ।
त्वं अस्माभिः अशेषात्मन् तत् तथा एव उपपादितम् ॥ 21॥

धर्मः च स्थापितः सत्सु सत्यसंधेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ 22॥

अवतीर्य यदोः वंशे बिभ्रत् रूपं अनुत्तमम् ।
कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ 23॥

यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
श‍ऋण्वंतः कीर्तयंतः च तरिष्यंति अंजसा तमः ॥ 24॥

यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम ।
शरत् शतं व्यतीयाय पंचविंश अधिकं प्रभोः ॥ 25॥

न अधुना ते अखिल आधार देवकार्य अवशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायं अभूत् इदम् ॥ 26॥

ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकान् लोकपालान् नः पाहि वैकुंठकिंकरान् ॥ 27॥

श्री भगवान् उवाच ।
अवधारितं एतत् मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यं अखिलं भूमेः भारः अवतारितः ॥ 28॥

तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ 29॥

यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् ।
गंतास्मि अनेन लोकः अयं उद्वेलेन विनंक्ष्यति ॥ 30॥

इदानीं नाशः आरब्धः कुलस्य द्विजशापतः ।
यास्यामि भवनं ब्रह्मन् न एतत् अंते तव आनघ ॥ 31॥

श्री शुकः उवाच ।
इति उक्तः लोकनाथेन स्वयंभूः प्रणिपत्य तम् ।
सह देवगणैः देवः स्वधाम समपद्यत ॥ 32॥

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ 33॥

श्री भगवान् उवाच ।
एते वै सुमहोत्पाताः व्युत्तिष्ठंति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ 34॥

न वस्तव्यं इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ 35॥

यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ 36॥

वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् ।
भोजयित्वा उशिजः विप्रान् नानागुणवता अंधसा ॥ 37॥

तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महांति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ 38॥

श्री शुकः उवाच ।
एवं भगवता आदिष्टाः यादवाः कुलनंदन ।
गंतुं कृतधियः तीर्थं स्यंदनान् समयूयुजन् ॥ 39॥

तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णं अनुव्रतः ॥ 40॥

विविक्तः उपसंगम्य जगतां ईश्वरेश्वरम् ।
प्रणम्य शिरसा पादौ प्रांजलिः तं अभाषत ॥ 41॥

उद्धवः उवाच ।
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्य एतत् कुलं नूनं लोकं संत्यक्ष्यते भवान् ।
विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ 42॥

न अहं तव अंघ्रिकमलं क्षणार्धं अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय मां अपि ॥ 43॥

तव विक्रीडितं कृष्ण नृणां परममंगलम् ।
कर्णपीयूषं आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ 44॥

शय्यासनाटनस्थानस्नानक्रीडाशनादिषु ।
कथं त्वां प्रियं आत्मानं वयं भक्ताः त्यजेमहि ॥ 45॥

त्वया उपभुक्तस्रक्गंधवासः अलंकारचर्चिताः ।
उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ 46॥

वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमंथिनः ।
ब्रह्माख्यं धाम ते यांति शांताः संन्यासिनः अमलाः ॥

47॥

वयं तु इह महायोगिन् भ्रमंतः कर्मवर्त्मसु ।
त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ 48॥

स्मरंतः कीर्तयंतः ते कृतानि गदितानि च ।
गतिउत्स्मितीक्षणक्ष्वेलि यत् नृलोकविडंबनम् ॥ 49॥

श्री शुकः उवाच ।
एवं विज्ञापितः राजन् भगवान् देवकीसुतः ।
एकांतिनं प्रियं भृत्यं उद्धवं समभाषत ॥ 50॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे देवस्तुत्युद्ध्वविज्ञापनं नाम
षष्ठोऽध्यायः ॥




Browse Related Categories: