View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 41

व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कंचित्पदार्थं शरणं गतस्वाम् ॥1॥

निशम्य गोपीवचनादुदंतं सर्वेऽपि गोपा भयविस्मयांधाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥

त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।
शंकामधादागरवः किमेष किं चांदनो गौल्गुलवोऽथवेति ॥3॥

मदंगसंगस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् ।
इत्युल्लपन् वल्लवतल्लजेभ्यः त्वं पूतनामातनुथाः सुगंधिम् ॥4॥

चित्रं पिशाच्या न हतः कुमारः चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमांक्षीत् ॥5॥

दिनेदिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमांगल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव प्रमोदसांद्रः परितो विरेजे ॥6॥

गृहेषु ते कोमलरूपहासमिथःकथासंकुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनंदन् ॥7॥

अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभिः ॥8॥

भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालंबिलोलंबतुलामलासीः ॥9॥

निपाययंती स्तनमंकगं त्वां विलोकयंती वदनं हसंती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥10॥




Browse Related Categories: