View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 66

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवांछितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिंधो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥

तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरंतुम् ॥4॥

चंद्रकरस्यंदलसत्सुंदरयमुनातटांतवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥

सुमधुरनर्मालपनैः करसंग्रहणैश्च चुंबनोल्लासैः ।
गाढालिंगनसंगैस्त्वमंगनालोकमाकुलीचकृषे ॥6॥

वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वांतानां कांत सुभ्रुवामदधाः ॥7॥

कंदलितघर्मलेशं कुंदमृदुस्मेरवक्त्रपाथोजम् ।
नंदसुत त्वां त्रिजगत्सुंदरमुपगूह्य नंदिता बालाः ॥8॥

विरहेष्वंगारमयः शृंगारमयश्च संगमे हि त्वम् नितरामंगारमयस्तत्र पुनस्संगमेऽपि चित्रमिदम् ॥9॥

राधातुंगपयोधरसाधुपरीरंभलोलुपात्मानम् ।
आराधये भवंतं पवनपुराधीश शमय सकलगदान् ॥10॥




Browse Related Categories: