View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 71

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबंधुः ।
त्वां सिंधुजावाप्य इतीव मत्वा संप्राप्तवान् सिंधुजवाजिरूपः ॥1॥

गंधर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥2॥

तार्क्ष्यार्पितांघ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥3॥

प्रवंचयन्नस्य खुरांचलं द्रागमुंच चिक्षेपिथ दूरदूरम्
सम्मूर्च्छितोऽपि ह्यतिमूर्च्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥4॥

त्वं वाहदंडे कृतधीश्च वाहादंडं न्यधास्तस्य मुखे तदानीम् ।
तद् वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥5॥

आलंभमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात् सुरेंद्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥6॥

कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥7॥

कदापि गोपैः सह काननांते निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मजः प्राप दुरंतमायो व्योमाभिधो व्योमचरोपरोधी ॥8॥

स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥9॥

एवं विधैश्चाद्भुतकेलिभेदैरानंदमूर्च्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेश पायाः ॥10॥




Browse Related Categories: