View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गीतगोविंदं सप्तमः सर्गः - नागर नारयणः

॥ सप्तमः सर्गः ॥
॥ नागरनारायणः ॥

अत्रांतरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलांछनश्रीः ।
वृंदावनांतरमदीपयदंशुजालै-र्दिक्सुंदरीवदनचंदनबिंदुरिंदुः ॥ 40 ॥

प्रसरति शशधरबिंबे विहितविलंबे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ 41 ॥

॥ गीतं 13 ॥

कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवंचिता ॥ 1 ॥

यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ 2 ॥

मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ 3 ॥

मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ 4 ॥

अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ 5 ॥

कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हंति मामतिविषमशीलया ॥ 6 ॥

अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ 7 ॥

हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ 8 ॥

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बंधुभिरंधकारिणि वनोपांते किमु भ्राम्यति ।
कांतः क्लांतमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमंजुवंजुललताकुंजेऽपि यन्नागतः ॥ 42 ॥

अथागतां माधवमंतरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशंक्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ 43 ॥

॥ गीतं 14 ॥

स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ 1 ॥

हरिपरिरंभणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ 2 ॥

विचलदलकललिताननचंद्रा ।
तदधरपानरभसकृततंद्रा ॥ 3 ॥

चंचलकुंडलदलितकपोला ।
मुखरितरसनजघनगलितलोला ॥ 4 ॥

दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ 5 ॥

विपुलपुलकपृथुवेपथुभंगा ।
श्वसितनिमीलितविकसदनंगा ॥ 6 ॥

श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ 7 ॥

श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ 8 ॥

विरहपांडुमुरारिमुखांबुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ 44 ॥

॥ गीतं 15 ॥

समुदितमदने रमणीवदने चुंबनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ 1 ॥

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ 2 ॥

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ 3 ॥

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ 4 ॥

रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ 5 ॥

चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ 6 ॥

रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ 7 ॥

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ 8 ॥

नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छंदं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कंठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ 45 ॥

॥ गीतं 16 ॥

अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ 1 ॥

विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ 2 ॥

अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ 3 ॥

स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ 4 ॥

सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ 5 ॥

कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥ 6 ॥

सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ 7 ॥

श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ 8 ॥

मनोभवानंदन चंदनानिल प्रसीद रे दक्षिण मुंच वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ 46 ॥

रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिंदुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरंकुशः ॥ 47 ॥

बाधां विधेहि मलयानिल पंचबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतांतभगिनि क्षमया तरंगै-रंगानि सिंच मम शाम्यतु देहदाहः ॥ 48 ॥

प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम्
रधायाश्कितं विलोक्य हसति स्वैरं सखीमंडले ।
व्रीडाचंचलमंचलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानंदाय नंदात्मजः॥ (कस्मिंश्चन पाठांतरे इदं पद्यं विद्यते)

॥ इति गीतगोविंदे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥




Browse Related Categories: