View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 68

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥

तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् ।
घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥

तव विभोऽपरा कोमलं भुजं निजगलांतरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुंधतीवातिहर्षुला ॥3॥

अपगतत्रपा कापि कामिनी तव मुखांबुजात् पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्त्रपंकजे निदधती गता पूर्णकामताम् ॥4॥

विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् ।
इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥5॥

इति मुदाऽऽकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचांबरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥6॥

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनैः ॥7॥

अयि कुमारिका नैव शंक्यतां कठिनता मयि प्रेमकातरे ।
मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥8॥

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥9॥

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥10॥




Browse Related Categories: