View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 9

स्थितस्स कमलोद्भवस्तव हि नाभिपंकेरुहे
कुतः स्विदिदमंबुधावुदितमित्यनालोकयन् ।
तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-
श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यंबुजाम् ॥1॥

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदंबुजं समजनीति चिंतामगात् ॥2॥

अमुष्य हि सरोरुहः किमपि कारणं संभ्वे-
दिति स्म कृतनिश्चयस्स खलु नालरंध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान् प्रौढधी -
स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥3॥

ततः सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥4॥

शतेन परिवत्सरैर्दृढसमाधिबंधोल्लसत्-
प्रबोधविशदीकृतः स खलु पद्मिनीसंभवः ।
अदृष्टचरमद्भुतं तव हि रूपमंतर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥5॥

किरीटमुकुटोल्लसत्कटकहारकेयूरयुङ्-
मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि भावये कमलजन्मे दर्शितम् ॥6॥

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा-
मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥7॥

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥8॥

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कंपितं पयसि पंकजं वायुना
भवद्बलविजृंभितः पवनपाथसी पीतवान् ॥9॥

तवैव कृपया पुनस्सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥10॥




Browse Related Categories: