View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 60

मदनातुरचेतसोऽन्वहं भवदंघ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥

तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहारशतैरपूजयन् दयितो नंदसुतो भवेदिति ॥2॥

इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥3॥

नियमावसितौ निजांबरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥4॥

त्रपया नमिताननास्वथो वनितास्वंबरजालमंतिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं तरसाऽधिरूढवान् ॥5॥

इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥6॥

अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् ।
प्रदिशांबरमंबुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥7॥

अधिरुह्य तटं कृतांजलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥8॥

विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने सचंद्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥9॥

उपकर्ण्य भवन्मुखच्युतं मधुनिष्यंदि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥10॥

इति नन्वनुगृह्य वल्लवीर्विपिनांतेषु पुरेव संचरन् ।
करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥11॥




Browse Related Categories: