View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 49

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशंक्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥

तत्रोपनंदाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतः प्रतीच्यां विपिनं मनोज्ञं वृंदावनं नाम विराजतीति ॥2॥

बृहद्वनं तत् खलु नंदमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥3॥

अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादांतरतो वधूभिः ।
भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥4॥

निरीक्ष्य वृंदावनमीश नंदत्प्रसूनकुंदप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसांद्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥5॥

नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥6॥

अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् ।
निरंतरस्मेरसरोजवक्त्रां कलिंदकन्यां समलोकयस्त्वम् ॥7॥

मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिंचलोकस्पृशमुच्चशृंगैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥8॥

समं ततो गोपकुमारकैस्त्वं समंततो यत्र वनांतमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिंदजां रागवतीमिवैकाम् ॥9॥

तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥10॥




Browse Related Categories: