View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 27

दर्वासास्सुरवनिताप्तदिव्यमाल्यं
शक्राय स्वयमुपदाय तत्र भूयः ।
नागेंद्रप्रतिमृदिते शशाप शक्रं
का क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥

शापेन प्रथितजरेऽथ निर्जरेंद्रे
देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा
निर्वाणप्रभव समं भवंतमापुः ॥2॥

ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं
प्रादुष्षन् वरद पुरः परेण धाम्ना ।
हे देवा दितिजकुलैर्विधाय संधिं
पीयूषं परिमथतेति पर्यशास्त्वम् ॥3॥

संधानं कृतवति दानवैः सुरौघे
मंथानं नयति मदेन मंदराद्रिम् ।
भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेंद्रे
सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥4॥

आधाय द्रुतमथ वासुकिं वरत्रां
पाथोधौ विनिहितसर्वबीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तै-
र्व्याजात्त्वं भुजगमुखेऽकरोस्सुरारीन् ॥5॥

क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं
दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी
प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥6॥

वज्रातिस्थिरतरकर्परेण विष्णो
विस्तारात्परिगतलक्षयोजनेन ।
अंभोधेः कुहरगतेन वर्ष्मणा त्वं
निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥7॥

उन्मग्ने झटिति तदा धराधरेंद्रे
निर्मेथुर्दृढमिह सम्मदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे
वैवश्यं परिशमयन्नवीवृधस्तान् ॥8॥

उद्दामभ्रमणजवोन्नमद्गिरींद्र-
न्यस्तैकस्थिरतरहस्तपंकजं त्वाम् ।
अभ्रांते विधिगिरिशादयः प्रमोदा-
दुद्भ्रांता नुनुवुरुपात्तपुष्पवर्षाः ॥9॥

दैत्यौघे भुजगमुखानिलेन तप्ते
तेनैव त्रिदशकुलेऽपि किंचिदार्ते ।
कारुण्यात्तव किल देव वारिवाहाः
प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥10॥

उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले
तत्राब्धौ चिरमथितेऽपि निर्विकारे ।
एकस्त्वं करयुगकृष्टसर्पराजः
संराजन् पवनपुरेश पाहि रोगात् ॥11॥




Browse Related Categories: