View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 48

मुदा सुरौघैस्त्वमुदारसम्मदै-
रुदीर्य दामोदर इत्यभिष्टुतः ।
मृदुदरः स्वैरमुलूखले लग-
न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥

कुबेरसूनुर्नलकूबराभिधः
परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ
चिरं किल त्वद्विमुखावखेलताम् ॥2॥

सुरापगायां किल तौ मदोत्कटौ
सुरापगायद्बहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो
भवत्पदैकप्रवणो निरैक्षत ॥3॥

भिया प्रियालोकमुपात्तवाससं
पुरो निरीक्ष्यापि मदांधचेतसौ ।
इमौ भवद्भक्त्युपशांतिसिद्धये
मुनिर्जगौ शांतिमृते कुतः सुखम् ॥4॥

युवामवाप्तौ ककुभात्मतां चिरं
हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरेतौ तौ भवदीक्षणस्पृहां
गतौ व्रजांते ककुभौ बभूवतुः ॥5॥

अतंद्रमिंद्रद्रुयुगं तथाविधं
समेयुषा मंथरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ
चिराय जीर्णौ परिपातितौ तरू ॥6॥

अभाजि शाखिद्वितयं यदा त्वया
तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणा-
दभाजि गोविंद भवानपि स्तवैः ॥7॥

इहान्यभक्तोऽपि समेष्यति क्रमात्
भवंतमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद्भव्दंघ्रिमागतौ
गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥8॥

ततस्तरूद्दारणदारुणारव-
प्रकंपिसंपातिनि गोपमंडले ।
विलज्जितत्वज्जननीमुखेक्षिणा
व्यमोक्षि नंदेन भवान् विमोक्षदः ॥9॥

महीरुहोर्मध्यगतो बतार्भको
हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रुवाणैर्गमितो गृहं भवान्
मरुत्पुराधीश्वर पाहि मां गदात् ॥10॥




Browse Related Categories: