View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 10

वैकुंठ वर्धितबलोऽथ भवत्प्रसादा-
दंभोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥

मिथ्याग्रहास्मिमतिरागविकोपभीति-
रज्ञानवृत्तिमिति पंचविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून -
स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥

तावत् ससर्ज मनसा सनकं सनंदं
भूयः सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना-
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥

तावत् प्रकोपमुदितं प्रतिरुंधतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिंचे-
त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥

एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावंत्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥5॥

रुद्राभिसृष्टभयदाकृतिरुद्रसंघ-
संपूर्यमाणभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मंगलाये-
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥

तस्याथ सर्गरसिकस्य मरीचिरत्रि-
स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अंगादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥7॥

धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरंगजसंकुलोऽभूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै-
रुद्बोधितश्च विरराम तमो विमुंचन् ॥8॥

वेदान् पुराणनिवहानपि सर्वविद्याः
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-
मप्राप्नुवंस्तव पदांबुजमाश्रितोभूत् ॥9॥

जानन्नुपायमथ देहमजो विभज्य
स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविंद मारुतपुरेश निरुंधि रोगान् ॥10॥




Browse Related Categories: