View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 86

साल्वो भैष्मीविवाहे यदुबलविजितश्चंद्रचूडाद्विमानं
विंदन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभांक्षीत् ।
प्रद्युम्नस्तं निरुंधन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं
तस्यामात्यं द्युमंतं व्यजनि च समरः सप्तविंशत्यहांतः ॥1॥

तावत्त्वं रामशाली त्वरितमुपगतः खंडितप्रायसैन्यं
सौभेशं तं न्यरुंधाः स च किल गदया शार्ङ्गमभ्रंशयत्ते ।
मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं
नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥2॥

क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मंक्षु साल्वेऽपि चक्रे-
णोत्कृत्ते दंतवक्त्रः प्रसभमभिपतन्नभ्यमुंचद्गदां ते ।
कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं
सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥3॥

त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः
क्रंदंत्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनंताम् ।
अन्नांतप्राप्तशर्वांशजमुनिचकितद्रौपदीचिंतितोऽथ
प्राप्तः शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमंतं वनांते ॥4॥

युद्धोद्योगेऽथ मंत्रे मिलति सति वृतः फल्गुनेन त्वमेकः
कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पांडवार्थम् ।
भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण
व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥5॥

जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बंधुघाते दयालुं
खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा ।
को वध्यः कोऽत्र हंता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥6॥

भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
नित्यं नित्यं विभिंदत्ययुतसमधिकं प्राप्तसादे च पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली-
वाधावन् प्रांजलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥7॥

युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयत्सिंधुराजम् ।
नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं
तत्रे त्रापि पार्थं किमिव नहि भवान् पांडवानामकार्षीत् ॥8॥

युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ-
न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा ।
यज्ञघ्नं वल्कलं पर्वणि परिदलयन् स्नाततीर्थो रणांते
संप्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥9॥

संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे ।
उच्छित्यै पांडवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
रक्षन्नंगुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥10॥

धर्मौघं धर्मसूनोरभिदधदखिलं छंदमृत्युस्स भीष्म-
स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् ।
संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं
संप्राप्तो द्वरकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥11॥




Browse Related Categories: