View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 32

पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे ।
निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥

सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥

क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥3॥

योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥4॥

प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनींद्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥5॥

धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते
तत्कंपकंप्रेषु च तेषु भूयस्त्वमंबुधेराविरभूर्महीयान् ॥6॥

झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुंगशृंगे तरणिं बबंधुः ॥7॥

आकृष्टनौको मुनिमंडलाय प्रदर्शयन् विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥8॥

कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद् हयग्रीवमभिद्रुतोऽभूः ॥9॥

स्वतुंगशृंगक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा ।
विरिंचये प्रीतहृदे ददानः प्रभंजनागारपते प्रपायाः ॥10॥




Browse Related Categories: