View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 6

एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदंति ।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥1॥

जंघे तलातलमथो सुतलं च जानू
किंचोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमंबरमंग नाभि-
र्वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥2॥

ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो जगदाश्रितैर-
प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥3॥

त्वद्ब्रह्मरंध्रपदमीश्वर विश्वकंद
छंदांसि केशव घनास्तव केशपाशाः ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रै ॥4॥

निश्शेषविश्वरचना च कटाक्षमोक्षः
कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्च दशनाः शमनश्च दंष्ट्रा ॥5॥

माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश शकुंतपंक्तिः ।
सिद्धादयः स्वरगणा मुखरंध्रमग्नि-
र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥6॥

पृष्ठं त्वधर्म इह देव मनः सुधांशु -
रव्यक्तमेव हृदयंबुजमंबुजाक्ष ।
कुक्षिः समुद्रनिवहा वसनं तु संध्ये
शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥7॥

श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैंधवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहु-
चारूरुयुग्मचरणं करुणांबुधे ते ॥8॥

संसारचक्रमयि चक्रधर क्रियास्ते
वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
नाड्यस्सरित्समुदयस्तरवश्च रोम
जीयादिदं वपुरनिर्वचनीयमीश ॥9॥

ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः ।
तस्यांतरात्मवपुषे विमलात्मने ते
वातालयाधिप नमोऽस्तु निरुंधि रोगान् ॥10॥




Browse Related Categories: