View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम्

अथ चतुर्थस्तोत्रम्

निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥

यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥ (सुमतिप्रभवम्)
बहुचित्रजगत् बहुधाकरणात्परशक्तिरनंतगुणः परमः ।
सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3॥

स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4॥

विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोभिदमीशमनंतमुपास्व हरिम् ॥ 5॥

न हि विश्वसृजो विभुशंभुपुरंदर सूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हंति निजं पदमापयति प्रणतां स्वधिया ॥ 6॥

परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7॥

इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु चतुर्थस्तोत्रं संपूर्णम्




Browse Related Categories: